Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

धरध्रुव पद्प्रस्तारविस्तारितनामा वलीलालित्यविलोकनसंतुष्टतरधरणिपुरंदरवरलब्धैक क्षोणीपालतिलकपति परिचर्यावशीकरणगतामिवोर्वशीं सौविद्दलशतसंवृतमणिमयमंडपरंगभूपरि सरतांडव- लास्यपांडित्यनटनटीमुकुटकोटिमणिमंजरीकिरणपिंजरणं चरणयो रपरमंजीरभ्रमतांआदधानां पितुरप्यधिकतरं निजगुरुं सेवमानां निजां तनूजा मिव मन्वाना राजनिर्देशेनेदं चंपूकाव्यं पाठयंत स्ते कवीश्वरा: सविनयं समाहूय प्रत्युत्थानादिनानामानपुर:सर मिति पुष्टा:। कुत्र स्थीयते, किं क्रियते, किं वा पाठयंते, किं चेदानीं पठयते, किमित्यत्र नागम्यते इति। कवय:। भवद्भि र्यथा स्थापिता स्तथा तिष्ठाम:।तथापि । प्रात:स्नानं संध्याहोदेवार्चन मध्यापनं च विधाय पंचदशघटिकानंतरं पंचदशप्रकरणानि कानिचित् पठित्वा तन्मननपुर:सरं राजनिर्दिष्र्टनर्त्तनशालाबालिका: पाठयते। कुमारीनर्त्तनाध्यापन मतिकठिनं भवंत स्तदपि जानंति । कवि: ।

ब्रह्मणापि निजकल्पकोटिभि: शक्यते न कविकर्म निर्मितुं ॥
कारुकैरपि न किं विधीयते दारुयोषिदपि चारुनर्त्तकी ॥२७२॥

ततो महाभारतनित्यपुराणाकर्णनानंतरं गुणिजनगायनप्रसंगे पुनरप्येव मवदन् । श्रीमन्महाराजेन भवद्विरचितचंपू ध्ये संस्कृतसमस्यायां दीयमानायां अन्येपि कवयोपि समस्यां ददु र्वा नेति । कवि: । एकवदन कुमार राजकुमार सम्यगालोचित मुच्यते । श्रूयताम् । श्रीमन्महाराजेन संस्कृतसमस्यापूरण माकर्ण्य भाषासमस्यापूरणावधानार्थं संज्ञापिता: शतशो भाषाकवयो वयमप्येकां समस्यां ददाम इत्यहमहमिकया भाषा कवित्वकरण मतिकठिन मिति स्वगतं विचिंत्य साटोपं विकटवर्णघटनपटु इद मापेतु; । स कवि स्तानित्थ मुत्तरयांचकार ।

संस्कृतसिंहे गर्जति गच्छति गहनाद्नज इवेंदुशब्द:॥
शाखामृग इव भाषां निलीय शाखांतरे वसति ॥२७३॥

तंत स्ते तिरस्कृता इव सरोषं समस्यां ददु:। तत्र परकृतकाव्योल्लासनोल्लासितवेदव्यासा रघुनाथव्यासा ह्यनुप्रासालंकारालंकरणविभीषणस्थापन यश: समुद्भासितसर्वाशा: प्रथममिद माशंसु:। एवं तेन कविना प्रोच्यमाने स राजकुमार: पुनरप्येव मवदत् । अहो श्रीमन्महाराजेन श्रीमत्सवाईहाराजेन च द्वादशभाषा- विरचितराधामाधवविलास: श्रवणपथं नीत: तत्रापि भूयांस श्चमत्कारा वर्तंते इत्यस्माभि राकर्णित मिदानीं गायकै र्गायनरीत्या स प्रबंधोपि गीयते तर्हि सोपि भाषासमस्याप्रकरणानंतरं भूयादित्यादिदेश । तत स्तदानीं तेन कवीश्वरेण । तावेव त्रिम्मलवेंकटनायकौ गायकौ सप्रेमप्रेरितौ यदगायतां तदेवास्माभि रभ्यस्त मिदानीं गीयते श्रोतव्य ॥ श्री: ॥

॥इति श्रीमज्जयरामकवीश्वरविरचिते राधामाधवविलासे चंपूकाव्ये राजनीतिवर्णनं

नाम दशमोल्लास: ॥१०॥