Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
राधामाधवविलासचंपू (शहाजी महाराज चरित्र)
जनस्यार्द्धांगमेव गच्छति । स च जरासंध इव विगतार्द्धांगया निर्जरया कयाचिदुपसंयुज्यते। पुन स्तच्छरीरं रज्जुभि रिव महाभुजगै र्विनिर्बध्यते । तद्भुजंगमसंगमादिव कालकूटं तत्कंठे स्फुटता मेति । पुन स्तच्छरीरं गलगतगरलज्वालाकुलभालैकदेशं मौलौ जलमावहति । पुनरपि तद्विग्रह: जलकुंभान्मुनितरु रिव शिंबीजटाजालप्रतिपच्चंद्र कोरककलितमौलिभाग: समुज्जृंभते। पुन स्तच्छरीरं विगतजीवभावतया अपहृतवस्र मिव दिगंबरत्वं प्राप्य, अयं च भूतोद्भूतमहाभूतावेशितं पिशाचै:सह भस्मलुलितकलेवरतया स्मशान एव परिधमतीत्याकर्ण्य, भीतेनैव क्षणं स्थित्वा स्वागत मेवं विचारयितुं प्रचक्रमे । अहो निंद्यतरस्मैतच्छरीरस्यैतादृशी चेग्दति स्तर्हि समीचीनमेव । परंतु तस्य कंठगतं गरलं यत् तदेवैक मसह्य मित्यनुमीयते । तदर्थमेकं - रसायन मुपकल्पनीय मिति निश्चित्य तेन कविधुरंधरेण जरामरणभयरहितशरीरं विधित्सुना श्रीमद्राधामाधवविलासाख्य-संकृतचंपूकाव्यरसायनं तादेदानी मभिनिर्मितं । यद्नरुडेनाकुंठगतिना वैकुंठपीठादानीत ममरतरुमूल मनंतभोगपरिभावित बलाभिरामगुणगरिष्ठं, यस्य नामाप्येकवारमप्याकर्णितं चेत् सर्वेपि शरीरभवरोगा: पलाय्यैव गच्छंति, यत्संशोधितांत:करणकलुषभावतया संसेव्यमान मतिसुखदं, यस्यार्द्धमात्रयापि मात्रा पुव इव त्रिभुवनं संजीविष्यते इत्येतत् शास्त्रानुभवसिद्धं, यत् श्रीमंद्धरिवंशसहित महाभारतश्रवणसंतुष्ट श्रीमच्छिवगंगा धरेशरश्लाघांदोलितमौलि समुच्चलनललितकल्लोलगंगा – जलप्रवाहसस्त्रणेव वाग्विलासेन पूरितं, तत्सुवर्णघटितचंपूगर्भोल्लासितरसमधुरिमधुरंधुरं एतदिदानीं भवता श्रावितं । तत: पुनरपि स रसिकजनसमाज स्तं प्रबंधपाठकं पप्रच्छ। अहो प्रबंधपाठका भवतां प्रसादादसौ संस्कृतराधामाधवविलास श्चतुर्विधपुरुषार्थफलदायकोस्माकमपि संवृत्त:। तथैव द्वादशभाषाविरचितराधामाधवविलास: श्रीमन्महाराजेन भवन्मुखांभोजाद् यद्वत् श्रुत: तद्वदस्माकमपि श्रोतुं मानस मुत्कंठते तर्हि सोपि गेयो भवति भवद्भिरिति। तत: स प्रबंधपाठक स्तमेव पूर्वकथानुसंधानेन स्मा प्रबंधे तेभ्य: श्रावयामास । प्रबंधपाठक उवाच । यथा ।
+ + + + + + + + + + + + + +
+ + + + + + + + + + + + + +
तत: कदाचिज् जगद्विजयार्थं प्रस्थित: स सवाईमहाराज: मणिमयमंडितसिंहासने स्वकीयप्रतिबिंबमिव सर्वावयवसारुप्यतां धारयंतं शाहराजनयनद्वयमिय वामदक्षिणभाषापवादनिराकरणाय भ्रुकुटिछलां तुला मध्यारूढं अद्वितीयस्यैकराजस्यैष एव द्वितीयता माकलयंतं महाकुलसमुद्नवमपि नकुलरूपविभवशोभमानं माधवमिवमधो: शत्रुघ्नमिव रघुनाथस्य सकलकलाकुशलेभ्य: श्रीमद्विश्वनाथज्योतिर्वि द्भेयाभ्यस्तसमस्तविद्याकलापं नरषट्कशरीरबलप्रतिमल्लतया ज्योतिष्ठमिति नरषकट्साजेठिमल्लंनाधिष्ठितपार्श्चभागं तथाहि व्यायामे धनुराकर्षणे चललक्ष्यभेदने कुंजरारोहणे नृत्यचतुरतुरंगशिक्षायां काव्यनाटकाख्यायिकेतिहाससंगीतशास्त्रनानादेशभाषापरिज्ञाने वीणामृदंगवादनविषये गायने पुराणाकर्णने विनये गुरुजनसेवने चात्यंतंकुशलं कोयाजिराजाभिधानं युवराजं विधाय निजपदपीठाधिदैवतसपर्यार्थमिवोपकल्पितवान्। तत: स कदाचित् तेन सवाईमहाराजानुजेन गुणिजनगीततत्कविकृतचंपूचमत्कारचंद्रचकोरेण महाराजदत्तसमस्याप्रकरणं शृण्वता विकुंठितकंठीरवकंठरवेणापि कलकंठकंठमंजुलं निजपूर्वजनृत्यशालामालानायकमणिरमणीयगुणगरीय- सीमिति नायिकानामोपशोभितां चतुर्भुजकृष्णगोपालेन नटनायकचतुरस्रगायननर्त्तनादिसुलूनेरिनडनेरिवर्द्ध- मानतिरुमुरू रीठमूरू हावभावतं डभेदभ्र मरीसं वत्रयरे खामुद्राप्रमाण नोद्रनीहू वैलगुंडलिचित्रविचित्र - चिंदध्वाड