Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

नवमोल्लास:

तत: कतिपयदिवसै र्युवराज्यराज्यभारार्णवनौकर्णधारो वसिष्ठ इव वसिष्ठकर्मानुष्ठानवरिष्ठो व्यास इव वेदवर्णविवरणनिपुणो वाल्मीकि रिवकविकर्मानंदितहृदय: सकलशास्त्रार्थतत्वज्ञानसंपन्नो विपन्नजनाभयदानविहितकारुण्योप्रणी रग्निहोत्रकुशलानांपरदार परद्रव्यपरद्राहपेराङ्मुख इति पवित्रतया
गंगयाप्याधारभूतयावृत इत्याधाराधेययो रभेदे गंगाधर इति विख्यातनामधेयोमात्यो बभूव । तेन कदाचित् श्रीमच्छिवरायवदनारविंदा देतदीयराजदर्शनादिप्रसंग माकर्ण्य तूर्णं मद्दर्शनायानेय इत्यवादीत् । तत स्तै: कारितदर्शन: स कवि र्नवीनामात्यपदवीगरीयस स्तस्य मुद्रामवलोक्य श्लोकेनैकेन वर्णयामास । यथा ।

महाराजार्णवोत्पन्न एक: पूर्णकलाधर: ॥
मौलौ गंगाधरस्येव श्रीभरो यस्य राजते ॥२६६॥

तत: स सचिववर स्तदुत्तमश्लोकस्य स्वकीयसमुद्रवलयांकितवसुंधरा शासनमुद्रा मासनायोपकल्पयामास । तत स्तद्गंगाधरपंडितवरस्य तस्मिन् कवीश्वरे भूयान् पक्षपात: समजायत । तत: कतिपयदिवसै श्चंद्रग्रहणसमये तेनैकराजेन द्विजराजाय गजराजो दानजललुलितकरो दानजललुलितकरेणादायि तद्वर्णयति कवि:।

उदयाचलराहुनाशिते द्विजराजे यशसा विराजित: ॥
अकरोदपरं गजोपरि दिद्विजराजं भुवनैकभूपति: ॥२६७॥

तत: कतिपयदिवसै स्तेन युवराजधुरंधरेणाभिनवकालिदासकविता लालित्यशालिधारापरिवृढापरावतारेण दशभाषाश्लेषकाव्यलक्षणभाषणविचक्षणेन प्रचंडपंडितमंडलीपुंडरीकचंडभानुना द्वादशभाषाविरचितराधा- माधवविलासशुश्रूषुणा स कवि र्बहुमानपुर:सरमाहूय सरसहासरसदरविकसितवदनारविंदं स प्रबंध: श्रवणपथातिथितां नीत: । तत: केनचित् कविना नृपसन्निधौ प्राचीनमेवैकं पद्य मपाठि।