Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

सप्तमोल्लास:

प्रातस्तत्सभागगनविभावसुदधिमधुघृतलाजापुष्पाक्षतोदुंबराश्वत्थमुक्तामणिछत्र दूर्वांकुराशादर्शकन्याध्वजाष्टापदाक्षा नृप: श्रीतरु र्भद्रपीठानि सस्यानि मच्छा हया हंसचाषौ वृष: केसरी दक्षिणावर्त्तशंखांबुसिद्धार्थका रोचना स्वस्तिकं तोरण कीचका वेणव: ।

वरुणमधुदाक्तगंडो गज: तोयलंबोंबुद: पूर्णकुंभोद्रि रिंद्र: फलान्याममांसं सितं चामरं गौ: सवत्सांगना पुत्रिणी मानुषं वर्धमानं नराणां सहस्रं प्रयुक्तानि यानानि धन्वंतरि र्वामनो ब्राह्मणो भूमि रभ्युद्धता सिद्ध मन्नं वराह श्च तोयोत्थित: ।

त्रिनयनमधुसूदनस्कंदपद्मासना लोकपाला: सुरा: खं दिशोग्नि: सरांसि स्रवंत्यो मखा मारुतो ज्योतिषं धर्मशास्त्रामृतं वालखिल्यादयो वेदवाक्यं निधि: कौस्तुभ: कांचनं माणिभद्र: प्रियंगु:प्रमोदो वचामोदकौ।

दिति रदिति ररुंधति र्बुद्धिसावित्र्युमाकाशगंगा शची देवसेना सुधा शांतिलक्ष्म्याक्षमाला सरस्वत्यलंस्वस्तिशब्दो वषट्कार ॐकारपुण्याहधर्मक्रिया श्चैतदष्टोत्तरं मंगलानां शतं दर्शनात् स्पर्शनात् कीर्तना च्चाशुभानि व्यपोह्यार्थसिध्दिं दिशत्युत्तमां ॥२२४॥

इति विश्वनाथभट्टभणितं प्रात:स्मरणं आकर्ण्य उदतिष्टत् । ततो घृततैलभृतरजतकनकभाजनद्वयभाषा भूषितभुजद्वयो द्विज स्तस्य मूभुज: रक्तराजीवजीवकृन्नयनराजीवराजितं वदनेंदुबिंबं कविभि: संपूर्णनिशाकरेण तुलनीयं किंचित्स्पर्शित मिति स्नापयितुकाम मिव तस्मिन्बिंबयांबभूव । ततो विततसहस्त्ररश्मा वपि हिमकरकररुचिरतरछाये अछाछमछकछपचित्रतिरस्ककरिण्यापटीवस्त्र विस्तीर्णास्तरणे नवगजवाहितेति नवगजीनामधेयधारके सकलमहीपालदूतै: पूर्वमध्यासिते अनेकक्षत्रियकुलसंकुले नक्षत्रनाथसनाथछत्रछायांतरितकाय: वेत्रलताधरशतसमुत्सारितदूरजनपदसमुदाय: ललितकरकमलकलितकरवाल-कोटिविन्यासेनागमनेन च वसुंधराचरणशरणी मिवाश्वासयन् आस्थानमंडपे पंडितकविमंडलीमंडितोद्दंडजनदंडवत्प्रतितांडव मवलोक्यानंतानुकरणकोविद-भुजधृतभूभारभारातिशयेनेत्र व्यापितदिगन्तरै: र्नरसिंहावतारै रिव स्तंभाविर्भावितशरीरै र्मृगराजै रुह्यमानासने स धरणीपाकशासन: समुपविशति स्म । अत्रांतरेपि द्विजराजेपि महीसुराणां निजतप:पीयूषदानेन प्रभां करोतीति प्रभाकराभिधान मादधान: गुरू रस्य धरणिपुरंदरस्य स्वस्य चरणतीर्थामृतवर्षेण नरपतिजनपदजनितपुण्यशस्यान्यतिशयेन
संवर्द्धयामास । राजा पुरतो गत्वा बहुमानपुर:सरं समानीय स्वस्य वर्षपौरोहित्यं यथापूर्वं कारयामास। तथा तेषु प्रभाकरभट्टगुरुवर्येषु स्वस्य पौरोहित्यं च विधिवच्चालयत्सु सत्सु केचन तिरचनापल्लीमल्लीनाथान्वयजातपंडिता: कटकवासेन मासमेकं निरंतरप्रयाणप्रसंगा दलब्धराजदर्शना स्तं कविकर्मकोविदमिति निवेदयामासु: । भो: कवीश्वरा एकं पद्यं अस्मद्विषये विधाय दीयते चेत् तेन प्रभाकरगुरु: संतोषं प्राप्य राजदर्शन मस्माकं करिष्यति । तत स्तेभ्य: श्लोकद्वयं विधायादात् । यथा ।

विकास माप्रोति सहस्रपत्रं प्रभाकरो यत्र न तत्र चित्रं ॥
तदद्य चित्रं प्रविलोक्यते यदद्वित्राणि पत्राणि यथातथैव ॥२२५॥
आकर्णय नयवचनं वदनं द्विजराज ते द्विजा मुख्या: ॥
तान्न विचालय सहसा ये तव महसा गमिष्यता मररं ॥२२६॥


॥श्री:॥ ॥ इतिश्रीजयरामकविरचिते राधामाधवविलासे चंपूकाव्ये राजसभावर्णनं नाम सप्तमोल्लास: ॥