Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

ततो भाषाकवयोप्यहमहमिकया समस्या हृददु स्तासामपि पूरणं संस्कृतसंदर्भे लिखितु मयुक्त मिति प्रकरणप्रसंगा दग्रे भविष्यति । राजा एवमादीन् संस्कृतभाषासमस्याचमत्कारानाकर्ण्य स्वगत मेव मचिंतयत् ।अहो सर्वातिशयिनी कवित्वशक्ति रस्य दृश्यते । अयमेवास्माकं शश्वत्कीर्त्तिकर्ता भविष्यति । तर्हि सर्वप्रकारेणायं प्राणवत्परिपाल्योस्माभि रिति बाल्यवयस्थ मपि स्थविरबुध्दिशालिनं कृष्णमूत्ति मिव स्वधर्मक्षणार्थं कर्णरथारूढां कुंति मिवांगुलीभि: पंचभि: पांडवै: परिवृतां भीमसेनापसारितैकचक्रवर्तिसाध्वसां च कर्णेजपसर्पदर्पनिर्वापकशकुंतेशा- चंचुकुंतायितचंचुचंचुरां नानारत्नखनी लेखनीं धारयंतं सकलकलालंकारमंडितं रघुनाथपंडितं पुर: समाहूय तत्कर्णे किमपि निर्णिक्त मुक्तवान् । तत स्तं कवीश्वरवरं विविधवस्त्रालंकारसुगंधतांबूलादिपारितोषकै: परितुष्टं विधाय सायंकरदीपिका- धरसहस्रोद्भासितसभामंडपे बंदीजनजयनिनदानंदितहृदयारविंद: पूर्वपर्वतमस्तकात् पूर्णेंदु रिवादतिष्टत् । तत: सायतनविधिं समाप्य गायननर्त्तनादिविविधभेदबोधकै: कतिपयाप्तजनै: सहाभ्यंतरसभामध्यासीनं तस्य कवीश्वरस्यैत्तरदेशवेशशलिनो वास्तव्यपट्टन मन्ववाये चापृच्छत् । ततो नरपते र्बहिश्वर इव प्राणो भांडागारोपवनकुं जरतुरंगनटनर्त्तकशालापालकपरिजनाध्यक्षो धनद इव जनवेतनादानदक्ष: सकललोकविख्यातसख्य: सखोपंडित स्तत्रैवं प्रत्युत्तरयांचकार । स्वामिन् अय मिदानीं कविकर्मकुर्वार्णो दृष्ट: स्पष्ट मेतस्य पिता मार्कंडेयाहिवंतादिसप्तपर्वताध्यक्षता मविरतं वितन्यमानो गंभीरराय इत्यमिधाप्रसिध्द: स्वामिभि: कदाचिन्नयनपथं नीतो भविष्यति । एतस्यापि महद्भाग्य मिदानीं यत: सकलमहीमंडलाखंडलेन महाराजेनात्मीयजनमध्ये गणित:। ततो लोलिंबकर्मकरोल्लंबौ रघुनाथलक्ष्मणौ रघुनाथलक्ष्मणा विव परस्परोपमेयविहितसंरभावप्यस्य श्रीमद्दत्तोनागनाथपंडितै: सह संबंधसख्यं आचख्यतु: । राजा किमुच्यते तर्हि अयं अस्माकमेव विद्यते इत्यवोचत्।तत स्तदास्थानमंडपकांड पटनिकटदत्तपट्टकुटिकधाटिक: कंटककणपुटतटं रटनपटुघटिकाष्टक मवादयत् । तत स्तदास्थानमंडपकांडपटनिकटदत्तपट्टकुटिकधाटिकः कंटककणपुटतटं रटनपटुघटिकाष्टक मवादयत्। तत स्तेभ्यः सभास्तारेभ्य स्तांबूलं दापयित्वांतःपुर मगमत् ।।श्री।।


।।इति श्रीमज्जयरामक विविरचिते राधामाधवविलासे चंपूकाव्ये राजदर्शनसमस्यापूरणं नाम षष्ठोल्लासः।।६।।