Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
राधामाधवविलासचंपू (शहाजी महाराज चरित्र)
तत इतस्तत: परावृत्य प्रस्थानमंडप मगमत् । तदनु कतिपयदिवसै: श्रावणपौर्णास्यां रक्षाबंधनोत्सवाय सर्वेप्याजग्मु: । तत्र रक्षाबंधनभूषितं राजभुजभुजंगं (वर्णयामास)
शेषादप्यधिकतरं तव भुजभुजंगेन पंचशीर्षेण ॥
विधृता स्थिरेति हर्षाद्वर्षासु किल निवध्यते रक्षा ॥२४१॥
निजामशाहसहितं धृतं राजन्यकं करे ॥
मन्ये रक्षापदेशेन तस्य छत्रं विराजते ॥२४२॥
वर्षासु गतपर्णानि पंकजानि रमाकरं ॥
मन्ये रक्षापदेशेन सेवंते देव ते कर ॥२४३॥
अथ कदाचित् समुद्रतीरपर्वतवासिमि र्द्विपद्भि: कटकमार्गावरोधं विधाय स्थीयत इति श्रुत्वा राज्ञा तेषा मुपरि प्रेषिताऽपूर्वा सेना तद्रिपुशिरांसि सहस्रश आनीय निवेदयामास
। राजा प्रतिग्रामं वृक्षेषु तानि बंधनीयानीत्यादिदेश । तत्र
विश्वामित्रादधिकं चित्रं तव शाह विश्वमित्रत्वं ॥
यद्रिपुमस्तकनिकरै स्तरव: सर्वेपि नारिकेरंति ॥२४४॥
तत स्तस्मिन् प्रसंगे सर्वैरपि महाकविभि र्महाराजकीर्त्तिवर्णन मकारि । तत्रानेन कविनाप्येवमुक्तं ।
लोकेत्रयापणेस्मिन् कीर्त्या तव शाह पश्यतोहरया ॥
सौवर्णालंकारा दर्शनमात्रेण रौप्यतां नीता: ॥२४५॥
एवं कियत्यपि समये दक्षिणदेशप्रेषित: सेनापति: पुरंदराख्यं महापर्वतं अभित्रेभ्य: सगृह्य तन्मस्तके स्वभृत्यान्निधाय राजानं कथयामास । यथा ।
पौरंदरं य: पदमात्र मिच्छं श्चकार धर्मोंबरराजसेवां ॥
ततोधिकं त्वां नृप शाह मन्ये तन्मौलिसंस्थापितभृत्यवर्गं ॥२४६॥