Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
राधामाधवविलासचंपू (शहाजी महाराज चरित्र)
एवमादीन्यन्येषामपि महाकवीनां खड्गवर्णनान्याकर्ण्य किमपि विविदिषु रिवान्यत्राकृष्टदृष्टि रभवत् । तावन्नर्त्तनशिक्षाविचक्षणं ध्नावनचतुरं तुरग मारुह्याश्वसादी सविनय मेव मवादीत् । महाराज महानेतस्य जव: संपादित: केनाप्येश्वेनानेन साकं धावितुं न शक्यते । तावद्राजान मभिमुखीकृत्य स कवि स्तदश्ववर्णनं श्रावयामास ।
शाहराज तवाश्वोयं जवाधिक्ये सुशिक्षित: ॥
तथैव वैरितुरगै: पश्चादेव विमुच्यते ॥२३६॥
राजा तदश्ववर्णन माकर्ण्यैवमवदत् । कवे त्वं अमुमश्वं आरुह खड्गं चैमं बधान विजययात्रासमये मया सहैव स्थेयं । तत: प्रस्थानदुंदुभि रभवत् । तद् दुंदुभिवर्णनं गोपाचलीयभाषाविहितमिति संस्कृते न लिखितं । तत: सेनासन्नाह: समजायत । तं विलोक्य वर्णयामास ।
मच्छद्वयेन सेना तव मीनाक्षी विलक्षणा जयति ॥
स्वीयोरजोविशेषं रचयति परेषु सात्विकं भावं ॥२३७॥
तावच्छत्रुभि र्लोकालोक मप्युल्लंघ्य गतमिति चारा महाराज मुपगम्य कथयामासु: ।
स कवि स्त मुदंत माकर्ण्य वर्णयामास । यथा ।
न विधेयो नृप शाह त्वया स्वदुर्गे ग्रतापविश्वासो ॥
लोकालोकात्परत: प्रभया रिपव: पलायिता स्तेन ॥२३८॥
ततो राजा मृगयाव्याजाद् गव्यूतिमात्रं यात्रा मकरोत् । तत्र मार्गकाननेष्वाकर्णवितताननशुनकै रुद्धाटितनेत्रपिधानकोज्जृंभिततरक्षुशादूर्लगंधै: कुंजरबृंहितै: स्तुरंगहेषारवैश्च तुरंगकोलाहलै र्विद्रावितवनमहिषमृगवराह- खड्गाच्छभल्लभल्लकगोमायुशशमर्कटकसमूहानुधावमानविकटघोटवाटविट-
पिविटपटकंटकाकृष्टशिरोवेष्टनपटपाटनेन भीषणभटावलोकमाना अतिभीतपटु जालगतकालमृगशृंगसंकर्षणतया च नीलांबरपरिकलितकलेवरतया च हलेन यमुनाजलकर्षणसंकर्षण मनुकुर्वाणेन मृगयुना निवेदितमृग: निज वहनपरिश्रांतवैनतेयाय विष्वक्सेन इव श्येनाय दत्तपंचशावलंब: ससंभ्रमं बंभ्रमित्वा यावदायाव्यत्रांतरे रात्रिमुखमभवत् । तावदेकस्मिन् प्रदेशे पर्वतदरीदरीदृश्यमानं खद्योतवद् विद्योतकुशलं किमपि तृणविशेष मपश्यत् । स कविस्तृणं वर्णयामास । यथा ।
तव प्रतापेन जितं यदेतत् । तेजो रिपूणां कुशकाशवृत्ति ॥
खद्योतवत् तद्यवसे निशायां । विद्योतते शाह इति प्रतीम: ॥२३९॥
शाहसैनिकजनेन दुर्जना: । कंदरांतरचराश्च मारिता: ॥
तत्र गाढतमस:प्रशांतये । दीपितं तृण मिदं विलोक्यते ॥२४०॥