Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

ललितमल्लिकाकुसुमावतंस: सविस्मयविस्फारितनयन: सनयताराधिनाथमिव
सीतारामयोगशास्त्रार्थविचारचंचुर न्यायमीमांसादिशास्रसीमामीमांसकं
काव्यनाटकालंकारार्थचमत्कारकल्पनाकोविंद राज्ञ: सुहृदं
महालयलोजिघंटाघोषोपनामान सविनयादवनतकंधरं किंचित्सात्चीकृतवदनारविंदं
बंधुरमेवमवदत् । अहो नूनं मनोगतमप्यनेन कविना न विना देव्या:
प्रसादादिदमिदानीमापादितं । तर्हि भवंतोपि किमपि वदंत्वित्यादिदेश । ततस्तेपि
स्वस्याशयं विन्यस्य समस्यामिवोपन्यासयामासु: यथा । भानुमिश्रकरविरचि-
तरसमंजरीपिंजरितस्वीयापरकीयासामान्या-दिनायिकाभेदेषु विबुधैरपि दुरधिग-
मार्थबोधेषु रसिकजननिरसितहृदयखेदेषु ज्ञातनयौवनाज्ञातयौवना-प्रतिपादकश्लोकद्वये
चमत्कारार्थकल्पनया स कवि रेव मश्रावि । अज्ञातयौवन यथा ।
नीरात्तार मुपागता श्रवणयो: सीम्नि स्फुरनेत्रयो:
श्रोत्रे लग्नमिदं किमुत्पलमिति ज्ञातुं करं न्यस्यति ॥
शैवालांकुरशंकया शशिमुखी रोमावलिं प्रांछति
श्रांतास्मीति मुहु: सखी मविदितश्रोणीभरा पृच्छति ॥२२१॥
अत्र नेत्रोत्पलं श्रोते लग्न मित्यनुभवविरोधा दसंगतार्थस्य स्फुरदितिविशेषणे न
सार्थकता ।
ज्ञातयौवना यथा ।
स्वयंभू: शंभु रंभोजलोचने त्वत्पयोधर: ॥
नखेन कस्य धन्यस्य चंद्रचूडो भविष्यति ॥२२२॥

अत्र तया यौवनं कथं ज्ञात मित्याक्षेपे द्योतकपदाभावात् बहिर्लापिकाप्रकारेण वा निगूढव्यापाराभिप्रायेण वा तया तूष्णीं स्थित मित्यनेनैव ज्ञातयौवनात्वं प्रतिपादितं । ज्ञाते बुभुत्साभावात् । तत स्तेन कविना च सत्कारार्थद्वयमेवमाकण्यैवं वर्णितं ।
लिप्सत्यर्थं कविता यद्यपि भवत: प्रियेव सामान्या ॥
चित्रं नायकभूषण तथा तव भवति सा मान्या ॥२२३॥