Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

तत: कतिपयदिवसै र्विद्यानगरकनकगिरिग्रहण विधाय तत्रत्यो नृपति: पलाय्य यमगुडाख्यं पर्वत माश्रित्य तिष्टतीति कथयिंतुं सैनिका: समाययु: । ततो राज्ञा रामेण हनुमानिव प्रेषितपूर्वों भीमरायाख्यो दूत: सत्वंरं प्रथम मागत्य तत्रत्य मुदंतं अकथयत् । स कवि स्तदेवं श्लोकसंदर्भेंणोत्तरप्रत्युत्तर मुत्तरयांचकार । यथा ।

नरपति रय मागतोऽस्ति दातुं कनकगिरे: कनकं धरासुरेभ्य: ॥
परिहर सहसा किरातसंगं भव भव तत्पदपद्मरागपीठं ॥२४७॥ गिरि रुवाच
ऱ्हेपितोस्ति सनलोपि यन्मया पश्य तस्य कविनापि वर्णितं ॥
स्वर्णमल्पमपि लभ्यमस्ति ते गच्छ रे न कुरु साहसं वृथा ॥२४८॥
स नलो न भवामि यन्त्वया हतगर्व: खलु खर्वतां गत: ॥
अनलोस्मि महान् प्रतापजो नृपशाहध्वजमारुतेरित; ॥२४९॥
ततो लोकोक्ति: ।
बहुविधयजनानि यन्य हेतो: क्रकचवधं विबुधै रनुष्ठितानि
कनकगिरिरयं प्रतापयंत्रै हेतपरिधि: सुलभोभवज्जनानां ॥२५०॥
वितरति कनकं यदध्यातमात्रांतरासन् कनकगिरिरिदानीं दृश्यतेसौ जनेन ॥
परकृत मसहत्वा दागतोसौ नल: किं कलहमिह विधातुं त्वत्प्रतापानलेन ॥२५१॥
नलप्रतापानलयो र्नियुध्दं मन्ये जित: पूर्वपदाभिधानं ॥
पलायनं वाभ्यसितुं निलीन स्तवारिनारीजठरे जवेन ॥२५२॥
मन्ये प्रताप: कुशलो न केवलं राजन् कृपाणोपि तवास्ति तादृश: ॥
येनाक्षतोसा वुडुविस्तवाहितो नीत: शरीरेण यमालयं प्रति ॥२५३॥

तत: कस्मिंश्चिद्दिवसे खङ्गविद्याविशारदा वाकंटखेटकाभ्या मुभावप्यावृत्तौ कृत्रिम मयुध्येतां तत उभाभ्यामपि खङ्ग मुत्सृज्य बाहुयुध्दं चक्रे । इत: सदसि पंडितद्वयं शास्त्रचर्चायां लौकिक माश्रित्य पद्वनेना युध्यत । राजा सस्मितं कवि मपश्यत् स कवि विदूषकविहितोपाहास मिति राज्ञ: स्मितेन निश्चित्योद्भारयामास ।

नियुद्धगालियुध्दाभ्यां शूरो वा पंडितो गुरु: ॥
इति पृष्ट: कवि व्रते भट्टाद् भट इति स्फुटं ॥२५४॥