Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

अष्टमोल्लास:

पुनरपरस्मिन् दिवसे यथापूर्व मुपविशति सति राजनि शस्त्रमार्जक तैलधावितां रत्नखचितमुष्टिमंजुलां पार्श्ववर्तिभृत्यपाणिगृहीतां कृपाणिका मवलोकितुं विकोशां कुर्वाणे सति स कवि र्वर्णयामास ।

यथामति मया विभो तव कृपाणिकाया: स्तुतिं
विधाय विनिगच्छते सदसि सत्कवीनां पुर: ॥
परीक्षणविचक्षणक्षितितलैकसंरक्षण
क्षणं ललितलक्षणश्रवण मत्र संदीयतां ॥२२७॥
राजा सादरं तच्छुतवान् । यथा ।
नृप तव कृपाणिकेयं दृढतरकरपीडनेन संभ्रांता ।
अपहृतकोशा भृत्यै र्निपतति परिवृत्य वैरिणां कंठे ॥२२८॥
नृप तव कृपाणिकाया: प्राय: सा x नी छाया ॥
अनया निकृत्तशत्रू ननुकृंतति सापि तत्र पत्रस्थान् ॥२२९॥
हस्तोदितो विचित्र: शाहमहीपाल खङ्गमेघ स्ते ॥
वर्षति यत्र हि धारां कुरुते तत्रैव जीवजीवनाभावं ॥२३०॥
आश्चर्यं तव शाहक्षितीश दृष्टं कृपाणजलदस्य ॥
वृष्टिं विनैव कुरुते य स्तृणसृष्टिं प्रतीपरदनेषु ॥२३१॥
अवलोकितं श्रुतं वा कैरपि चलनं जलस्य जलपुरत: ॥
नृप तव कृपाणनीरादू गच्छति नीरं परस्य वदनस्थं ॥२३२॥
कृष्णा कापि कृपाणी राजन्नाजौ विलक्षला जयति ॥
हरति पररक्तवस्त्रं स्वीयेनाच्छाद्य कालेन ॥२३३॥
श्रीमान् महाप्रयाग: पुष्करकलिता कलिंदजा यस्मिन् ॥
भूभृन्मौलिषु ललिता सूते चित्रं सरस्वतीं गगां ॥२३४॥
अलमलमधुना शाहक्षितीश युध्दे कृपाणनुति र्भिय: ॥
तृणमप्यरिदंतधृतं विलोक्य निलयान्नि:सरति ॥२३५॥