Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
राधामाधवविलासचंपू (शहाजी महाराज चरित्र)
तस्मिंश्च राजनि धरणिमंडलमंडनायिते सति तदीयगुणगणाकृष्टा इव नानादिगंतवास्तव्या: पंडिता: कवयश्च शतश: सहस्रश स्तत्सभामासाद्य स्वकीयगुणगणप्रकाशनेन परिपूर्णनोरथा: स्वस्वदेशा नासादयंतिस्म । एवं कतिपयदिवसै: श्रीमत्कृष्णभास्करगरुडध्वजात्मजभोजराजसहाय: सूर्यपर्वज्योतिष्मती-प्रयोगप्रभावप्राप्तकवित्वसिध्दि र्जामदग्नि र्वत्सगोत्रसंभव: पिंडयोपनामको जयरामो नाम कवि र्द्वादशभाषाकविताचातुरीधुरीणश्चारणमुखा देतदीय मौदार्य मवधार्य समुपजातकुतूहल स्तुलजाभवानीं श्रीमत्पांडुरंगं च कतिपयपद्यै र्नुत्वा नत्वा च प्रभुदर्शनाकांक्षी महाराष्ट्रदशा दागत्य ब्रह्मविद्यानिष्णांतं श्रीमच्छिवरायगोस्वामिनं नमस्कृत्य स्वमभीषितं प्राह । स च सिंहासनासीनं राजानं सकलबुधकविगुरुपरिवृत्त सुधर्मामध्यासीनं अपरमिव धरणिपुरंदर मेवं व्यजिज्ञपत् । महाराजाज कोपि महाराष्ट्रदेशा दागतो जयरामो नाम महाकवि र्द्वादशभाषाकवीश्वर: प्रभुदर्शनाकांक्षी तिष्ठति । राजा सुकुतूहलं कवीनां पंडितानांच मुखमवलोक्य विविधकथाकथकै वीरेशरवैद्यै र्भवद्भि श्चाग्रतो गत्वा समानेतव्य इत्यवोचत् । तत स्तै: सह प्रविष्टो जयरामकवीश्वर: स्वस्तीत्युक्त्वा निर्दिष्टप्रदेशे उपविश्य द्वादशनारिकेलफलान्युपहारीचकार । राजा सकुतूहलं किमिति द्वादशफलान्युपहारीचक्रीयंते इति साकूतमपृच्छत् । कवि: । द्वादशभाषासु संस्कृतप्राकृतगोपाचलीयगुर्जरवक्तरढुंढारपंजाबहिंदुस्थान - बग्गुलयावनीदाक्षिणात्ययावनीकार्णाटकाख्यासु निरर्गलं कवयामीति ज्ञापयितुमिति । तदाकर्ण्य राजा । भवतु भवत्कवित्वरीति रवगंतव्या सा चापि कीदृशी तदर्थं भवद्भि र्विरचितपूर्व मेकं किमपि काव्यं पठनीयं । कवि: द्वादशभाषाभि रेव विरचितपूर्व: श्रीमद्राधामाधवविलासो बाललीलादानलीलामानलीलाप्रकरणत्रयात्मको वर्तते श्रोतव्य इत्यवोचत् । तत स्तदानीं तेन कविवरेण सप्रेमप्रेरितो नानावर्णरक्तिरागताललयगायननिपुणगायक: पंचसायकसायकायिताय- समुखनखमुखविक्षतां रतिमिव मणितं क्वणित मातन्वानां स्पष्टवर्णोच्चारणशक्तिमतीमिति नारदस्य महतीमतिशयानां सहचरतुंबरवाद्यानुषक्तां च पांडवसभामिव निषादर्षभगांधारादिलसत्सप्ततंतुसमेतां क्षत्रियवंशावलिमिवाभिरामपरुषाहतैकविंशतिमूर्छनापन्नां त्रिभुवनमानसोन्मादनमहामंत्रवर्ण: षट्कर्णतां न गच्छेदिति शंकुषट्कप्रकीलितां विश्वकर्मण: कृतिमिव भुवनत्रये ग्रामोपशोभितां तुंबीफलपृथुलकुच- युगलमडलमंडिता मनुरागाकुला मतिप्रियां विपंचीं पंचीकृत्य तच्चंपूप्रपंचितगद्यपद्यगायनाय कंठासक्तां विधायातिरसास्वादनांदोलितमौलिर्नामावल्यादिकं गायतिस्म । तदा तें प्रत्यविचित्रविततवितानतिरस्करणीचित्रव्याजा द्दवेदिक्पालसमूहाभ्या माकर्णितु मभ्यागत मिति सभ्यानप्यभ्यागतजनो जानन्नयनप्रोंछन मातन्वानो राजानमेव परिजनव्यजनपवनवीज्यमान मनुजानाति स्म । यस्मिन् तुंबरफलव्याजेन त्रिमालवेंकटनायकगंधर्वविद्या-व्यापारपारमिवोद्वीक्षितुद्ग्रीव: शेषोपि भुवं भित्वा ह्यचलतया सहस्रवदनत्वं द्विसहस्रनयनश्रवस्त्वमप्येकीकृत्य श्रोतुं समपद्यत । यत्र पुरत:सौधकैलासनाथमौलिकलशगलितत्रिपथगया प्रांगणधरणिपरिसरविरचितजलयंत्रेण लोकोच्चलदमलजलधाराहितजंबीरफलास्फालनोत्तालि ततरलजलछलललितलास्योदंचदधोमध्योर्ध्व–संचत्रयाभिनय बाहुभ्रमणेन भुवनत्रयेप्येताद्दशो रसो नास्तीति निवेद्यत इव । स प्रबंध: पृथगेव तिष्ठति संस्कृतसंदर्भे लिखितु मयुक्तमिति न लिखित: प्रकरणप्रसंगा दग्रे भविष्यति । राजा त मामूलचूल माकर्ण्य सकलसभासद्भि: समवेत: संतुष्टतर: पर मभवत् । पुनरेवमवादीत् । समस्यायां गुण: कवे स्तर्हि समस्तै रपि प्रथमत:संस्कृतसमस्या देया: । मयाप्येका समस्या दीयते । तां पूरयंत्वित्यादिदेश । कवि र्यदाज्ञापयति महाराज इत्यवोचत् ।
॥ शतचंद्रं नभस्तलं ॥