Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

तदनु तुकांबिकाकौतुकादेव तुकदेवइत्यलभ्यलब्धाभिधाना: पुराणवाचने
वाचस्पतिस्पर्द्धिनीति मादधाना श्चैव कामेव समस्या मर्थद्वयेनोन्नीयतामिति नोदयामासु: ।
॥ हुताशन श्चंदनपंकशीतल: ॥
देहेंधनं त्वद्विरहेण शोषितं तस्या: समासाद्य दहत्यहर्निशं ।
भूयात् स कृष्णाद्य तवांगसंगमाद्धुताशन श्चंदनपंकशीतल: ॥२१५॥
निरिंधन: प्राणभृतां कृतांतव द्दहत्यहो प्राणसमीरणानपि ॥
भवत्यसौ सुष्ठुहुतादपधिंनाद् हुताशन श्चंदनपंकशीतल: ॥२१६॥
अत्रांतरे चमत्कारेण समस्यापूरण मभ्यर्णजनाननादाकर्ण्य
यौवराज्याभिषेकपवित्रगात्रो राजपुत्र स्तवागमनेन स्वकीय मप्रतिमरूपं
परिषन्नेत्रसहस्रपत्रमित्रतापात्रतां निनाय । तं लोकोत्तरलावण्यललितं विलोक्य स कवि
र्वर्णयामास । यथा ।
गुप्तं सहस्रनयनत्वमपि त्वदीय -
मकेंद्ररूप मभिरामतया व्यनक्ति ॥
स्पष्टं निमेषरहितानि मनोज्ञवेषो -।
जस्रं सहस्रनयनानि यत: स्फुरंति ॥२१७॥
ततोशेषविद्यासनाथा: शेषपंडितजगन्नाथा स्तथा च अनंतशेषपंडिता:
शृंगारपाथोधिमथनमधुसूदनस्य विनयशालिनो नरपतितनयतिलकस्य
मनोगतामृतमिवोच्चारयांचक्रु: । शेषपंडिता यथा ।
॥ चंद्रस्य बिंबे कदलीफलानि ॥
स कवि स्तं शृंगाररसरसिकं राजतनय मनया रीत्या रंजयामास यथा ।
कस्यास्ति साम्यं सुतनोर्मुखस्य रागोपलंभोप्यधरस्य कस्मिन् ॥
प्रियाणि तस्या: कथयाशु दूति चंद्रस्य बिंबे कदलीफलानि ॥२१८॥