Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

तृतीय उल्लास:

बालां वंचयितुं लोला मानंदभरमंथरां ॥
निलीनो लीलया बालवनमाली मुदेऽस्तु व: ॥५८॥

तदनु राधापि विद्युत्प्रकाशामेव मायामयमिव तरलजलप्रतिबिंबभिव क्षणेन तिरोहित मरविंदलोचन मनवलोकमाना किमपि मोगहन मवगाह्य तत्तिरोधानहेतु मपश्यन्ती मुहुर्मुहुरेवं विललाप । किमेतावानेव मदीयसुकृतपरिपाक: । किमतावंत्येव मम भागधेयानि । किमेतावानेव विधे: प्रसाद: । यदेवं वशीकृत इव आकल्पांतमचंचलानुराग इव स्वीकृतदासभाव इव प्रतिपदमपि निषेधवचनवदनपरिवर्त्तनप्रतिकूलाचरणै र्दुरासदां मंदभागधेयां मधुमधुरै श्चाटुवचनै स्तांबूलवीटिकाप्रदानेन प्रतिपदचंदनेन चर्चनेन कुसुममालाभि र्धम्मिल्लभूषणेन मुहुर्मुहु रनुवर्त्तमान स्तथाविध: प्रियतमो मे दुर्लभदर्शन: संवृत्त: । कदा नु पुनरपि तदीयशरदिंदुसुंदरवदनारविंद मवलोकयेयं । कदा वा तस्य सरसेक्षुद्राक्षामाक्षिकमाधुरीमाधुरीतितिरस्कारिणी र्वाणी र्वाणी राकर्णयिष्यामि । कदा वा तस्य मदनवेपनापनोदनानि केलीविलसितान्यनुभवेयं यस्य च चौर्यसुरतोत्सवस्य माधुरी ममृतधारापि नार्हति । तथाहि ।
स्पृष्टं यन्न भयेन यद्गुरुजनै रंगीकृतं केलिका -
योग्ये यत्समये च यत्र च मिथ:संभाषणान्युच्चकै: ॥
दौर्लभ्यं च न यत्र तेन सुरतेनात्यल्पमूल्येन किं
प्रार्थ्य: चौर्यरथोत्सव: किमु पुन श्चोरोपि चेत्स्यात्प्रिय: ॥५९॥

एवमादि विलंपंतीं राधा मालापश्रवणानुसारेण निकुंजगता मवधार्य लीलावतीनामालि: सकलविश्रंभपात्रभूता समीप मुपससर्पावादीच्च । बाले तवाभिलषित: किमद्य मिलितो वनमाली । स च किंचित्कालं रमयित्वा पुनरपि तिरोहित: येन त्वमेवं विक्लवा विलोक्यसे । तस्मिन् संभाव्यत एव एतद् येन तदीयं मायावित्व मनुपद मनुभूत मेव ।
समदु:खसुखेनैवं पृष्टा स्निग्धजनेन सा ।
नैवोत्तर मदात् बाला लज्जावनमितानना ॥६०॥

तदनु दूति: पुनरिंगितज्ञा इदमवादीवादीत्महानुभावे मा भूदावेग स्तमेन मतिनिपुण भुपालभ्य कथंचिदिहान्विष्यनेष्यामीति ।
समाप्राश्वास्य सखी मेवं विहरंतं हरिं रह: ।
लीलावती समासाद्य बभाण निपुणं वच: ॥६१॥