Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

भवतु तर्ह्यहमेवैदनुतिष्ठामीति वदति भगवति सा चैवं प्रत्यवादीत् ।
अये शरदिंदुवदन शरीरवदेव हृदयमपि मधुरतर मुपलक्षये ।
कुसुमापचये लोला मकाले मां हि बालिशां गीर्भि र्मधुमधुरधाराभि रनंदय: ।
पुर:प्रदेशे कुसुमानि दूरादानेतुमिच्छन्विजनं यियासो: ॥
आयासयित्री मृदुदेहयष्टे: कुतोहमस्मीति तनोमि चिंतां ॥३७॥
अथवा किमनेन ।
रमयंत: परानात्मदेहायासेन केचन
न खिद्यंते हि सरसा: स्वसुखं तच्च मन्वते ॥३८॥

किमन्यत् । अये लीलानिर्जितकुसुमसायक मदर्थं कुसुमान्यपचिनु । मा वा । तव मधुमधुरया गिरवै तावदुपकृतास्मीति भाषमाणामेनां सश्लेषभाषिता मपि पुन: परिशीलयितुं भगवानेवमवोचत् । अयि कुंदवृंदबंधूकचंपकचंचरीकसंहतेंदीवरद्वंद्ववदनारविंदेन भ्रूसाम्नादोबंदीकृतेंदुविलासेन तावदवगतं सार्थमेव तवायमारंभ: ।
कुसुमै र्मृदुलै: शय्यां विरचय्य मनोहरां ।
सह स्निग्धजनेनात्र रिरंसु स्त्वं हि तर्क्यसे ॥३९॥

एव मभिहितवति भगवति सा पुनरवादीत् । अये मधुमधुरभाषित साधु विदितं हृदयं भवता।
पुष्पशय्यारिरंसेयं आयासं तनुते तव ।
आनेयानि मयाप्यत्र सूनानि सुलभान्यये ॥४०॥

एवं भाषमाणा मेनां असंशय मनुकूला मवधार्य लब्धनिधिरिव किंचिन्निकुंजकुंजकहर मुपनीय मुररिपु ररीरमत् । तथाहि ।
अथादधे पल्लवतल्पकल्पनां हरि: प्रसूनास्त्रविनीतमानस: ॥
न्यवासयच्चापि सुधाझरायितां स्वचक्षुषो स्तामिह लज्जया नतां ॥४१॥
समनंतर मेवं चाटुवचननिचय मरचयत् ।
प्रिये प्रयातुं जलमात्रलिप्सया कलिंदजामद्य सतृष्णचेतसा ॥
सुधांधुरेवाधर एष ते मया सुखं समासादि तपस्तते: फलं ॥४२॥
तवामृतांधावधरे स्मरांधं मनो निमग्नं मम तत्पुरैव ॥
बाले कियानत्र रसोस्ति वेति मत्वोद्दिधीर्षु स्तदहं प्रसीद ॥४३॥
इतीरयित्वा स सकृच्चुचुंब निवारयंत्या मपि च प्रियायां ॥
कुचांकुरौ पंकजकुड्मलाभौ जिघृक्षु राधादिति चाटुवाच: ॥४४॥
स्मरकरी हृदयं तव भेदयन् अभिमुखं मम यातु मिहेच्छति ॥
स्फुरति कुंभयुंग हृदि यत्ततो भयदमस्य करोमि नखांकुशं ॥४५॥