Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

अये भूलोककुसुमसायक यशोदानंदन किमिति सकृत्कृतप्रणयां मम सखी मुपेक्षितवानसि । किमियं लोकोत्तरसौंदर्यशालिनी न भवति । किं वा तव किमपि वाम्य माचरितं । किंवा गुरुजनभयादेव मकरो: । शृणु तावत् ।
सौंदर्यसागरा त्सेयं लक्ष्मीरिव समुद्रता ॥
यूना केनापि तपसां निधिना लभ्यते पुन: ॥६२॥

यदि पुन र्लज्जया गुरुजनभयेन वा किमपि वाम्य माचरति तदा स्पृहणीय मेवैतत् ।
मामेति प्रतिषेधति प्रियतमाया श्चुंबनेन प्रियं
या वा नैव पराङ्मुखा प्रियतमे संश्लेषलोले सति ॥
नीवीबंधविमोचनं न च रुणध्दयंगीकृतंर्ष्या पुनस्
तस्या: किं परिरंभणेन रमणेनातिप्रियस्य प्रियं ॥६३॥
किंच ।
त्वं चेत् गुरुजनाद्भीत: सा चैव युवयो रयं ॥
भग्नो रतोत्सव श्चौर्यात् कदा संभविता पुन: ॥६४॥
यदि पुन र्मदीयं वचनजात मगणयन्नपेक्षसे । तदा खलु
एकाकिनीं वने राधां रतये क्लेशयन्नयं ॥
शिक्ष्यता मात्मजन्मेति यशोदायै निवेद्यते ॥६५॥

एवं नयभयदर्शनेन लीलावत्या मभिहितवत्यां यदुनंदनोपि निरपराधप्रेक्षणलज्जितह्यदय: कथं प्रियावदन मवलोकयेय मिति संकुचितांत:करण: पुनरपि राधानिवासभुव माससाद ॥
चंपककलिकादुर्ग्रहविग्रह मवलोक्य राधाया: ॥
अलि रिव ललितं गुंजन् किमपि निकंजे हरि र्जयति ॥६६॥
सीमंतीकृतमुक्ता: स्फुरंति राधे तथाप्यनिर्बांधं ॥
चंद्रामृतबिंदूनिव मंदंमंदं तम: पिर्बाति ॥६७॥
मृदुलान् सरलान् स्निग्धां स्त्रिगुणाकलितान्विलोक्य तव केशान् ॥
राजसमपि मां राधे सात्विकभावो भृशं स्पृशति ॥६८॥
भ्रूयुगुलांतर्वर्ती कुंकुमबिंदु र्विराजते तादृक् ॥
कलयति काचन वल्ली द्विपत्रिता यत्र बंधूक ॥६९॥
तव चललोचनयुगलं वेल्लद्भ्रूवल्लिकं जयति ॥
उत्तुंगशृंगयुगली मृगयुगलीला मिवाविभ्रत् ॥७०॥