Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57
राधामाधवविलासचंपू (शहाजी महाराज चरित्र)
ननु जातायामपि कवित्वसिध्दौ सर्वजनोपकारकं धर्मार्थकाममोक्षसाधनं सप्तसंतानसमुच्चयतुल्यं किमपि महत्फल मुत्पद्यते तेन वेत्याह सर्वज्ञत्व मिति ।
सर्वज्ञत्वमवाप्नुया मिति मति र्यस्योदयं प्राप्नुयात्
तेनायं सकलार्थद: प्रतिपदं ग्रंथ: समाकर्ण्यताम् ॥
यस्मिन्निर्गुणलक्षणोऽपि गुणवान् गोपालवंशोल्लसद्
राधाराधनसादरोऽपि हि यत: पद्माधव श्चाभवत् ॥१०॥
ननु राजभि र्विबुधै र्गायकादिभि श्च सर्वज्ञत्वं प्राप्तमेव वर्त्तते तै: किमित्ययं ग्रंथ: पठनीय इत्यत आह । सेव्य: कल्पतरु रिति ।
सेव्य: कल्पतरु: स एष धरणीपालै: फलप्राप्तये
बोध्दव्य श्च बुधै: सुभाषितपटग्रंथिस्थचिंतामणि: ॥
कंठे येन धृत: सुवर्णरुचिरै: सूत्रै: स रत्नाकर:
कर्तव्योऽस्ति वरं सुतादितिवरं राधावरो दत्तवान् ॥११॥
एवमाचूलमूलं मंगलाचरण माभासपूर्वकं विधाय गद्यपद्यात्मकं श्रीराधामाधवविलासाख्यं चंपूप्रबंधं नानाविधकाव्यलक्षणसहितं भाणप्रहसनडिमादिनाटकादिभेदसंमिश्रं ओज:प्रसादमाधुर्याद्यलंकारयुक्तं काव्यं संस्कृत उल्लासदशकमध्यं द्वादशभाषाविरचितप्रांतं सद्भि: श्रीकृष्णदेवभक्तै रेव सर्वदा श्रोतव्यं पठनीयं पाठनीयं च ॥
राधामाधवलीलाख्यचंपूसंपूर्णवर्णनम् ।
शृण्वंतु विबुधा: सर्वे जयरामकवे: कृतिम् ॥१२॥
तद्यथा । आसीदशेषवृंदारक वृंदवंद्यमानपादारविंदनिष्यंदमानमकरंदबिंदु संदोहमंदीकृतनंदमंदिररजोराजि: इंदिराहृदयकमलेंदिंदिर: विकचेंदीवरबंधु रद्युति: व्रजवधूभागधेयावधि: सुधानिधि रिव विबुधबुध्दिदुग्धोदधे रानकदुंदुभिनयनांभोजदुर्लभडिंभविभ्रमो बालेंदु रिव वसुधरावांछितचंक्रमणसंभ्रमैकवसति: नास्तिकोन्मूलनाय धर्म इव स्वीकृतप्रत्यक्षभावसिध्दि: बुध इव नामसाम्यमोहेन रोहिणीमातर मुपतिष्ठासु: जयंत इव क्ष्मालोकविचक्षणपरीक्षां दिदृक्षु: नलकूबर इवोरुनिर्जितरंभां राधामुपबुभुक्षु: पुष्पाकर इव मनुजदृग्गोचर: सशरीर इव त्रैलोक्यसुकृतनिकर: कल्पतरु रिव नरोत्तमदृष्टवशेन स्पष्ट मिह दृष्ट: कामधेनु रिव मानुपाभीष्टप्रदानलोलुप: चिंतामणि रिव अचेतनतादोषप्रमार्जनेच्छु: दर्पण इव कंर्दपरूपसंपत्ते र्विभ्रैमैकस्थान मिव सुभ्रुवां अभिलाषाणां कुलदैवतमिव पांडवांना पिंडीभूतं सुख मिव पुंडरीकनिलयाया: प्रत्यग्राव्ण इव शरणं वृष्णिकमलानां आनंदकंदकंदल इव वृंदावनसीमनि नंदनवनहरिचंदनो नंदनंदन: ॥ यस्य खलु पवित्रतराणि विचित्राणि चरित्राणि उपाख्यानविद एवमाचक्षते ॥ तथाहि ॥
यत्खेलनानि सततं व्रजसुंदरीणां
संमोहनानि सकलेंद्रियनंदनानि ॥
वृंदावने च यमुनापुलिने वने च
नदांगने च नितरा ममृतं द्रवंति ॥१३॥