Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

ननु गगने रागविहीन मक्षयं चित्रं पश्यत इत्युक्तं । तर्हि सर्वजनस्यापि नेत्रद्वयं ईश्वरस्य नेत्रत्रयं इंद्रस्य नेत्रसहस्रं शेषस्य नेत्रसहस्रद्वयं तिष्ठति तथापि तच्चित्र ममूर्तत्वाद द्रष्टुमशक्यं तत्कवित्वनेत्रेणैकेन दृष्ट मिति वदति कवित्वनेत्र मिति ॥
कवित्वनेत्रं यदि नो विदध्याद् विधि स्तदाद्यानिह को नु विद्यात् ॥
जगत्त्रयातीतपवित्रकीर्ती श्रीरामकृष्णावपि येन दृष्टौ ॥६॥

ननु रामायणभारताख्य मेकैकं कवित्वनेत्रं वाल्मीकिव्यासाभ्यां लब्धं तेन कवित्वनेत्रेण श्रीरामकृष्णा वपि दृष्टौ तद्वदमरकोशाख्य मेकं नेत्रं अमर: कोशो गर्भो यस्येति व्युत्पत्त्या सजीवतारकं शुक्रेणापि लब्धं नाम्ना कविरपि भवति तस्मात्सोपि कथं कवित्वं न करोति । यद्वा अमराणां देवानां कोशो भांडारं तस्य लाभेपि चारुप्रक्रियां सदाचारं न करोति स कवि रेकाक्ष: बृहस्पतितुल्य: कथं भवेदिति । यद्वाऽमरकोशाख्य मभिधानग्रंथाख्य मेकं नेत्रं लब्धं अपि चारुप्रक्रियां व्याकरणं न पठेत् स कवि रेकाक्ष: स सहस्राक्षगुरु: सहस्रप्रयोगद्रष्टा कथं भवेदित्याशंक्याह लाभेप्यमरकोशस्येति ।
लाभेप्यमरकोशस्य न चारुप्रक्रियां चरेत् ॥
कवि: स कथमेकाक्ष: सहस्राक्षगुरु र्भवेत् ॥७॥

ननु अमरकोशप्रक्रियाख्यनेत्रद्वयं लब्धमपि काव्यस्वरूपं स्वमुख मिव कदाचिदपि न पश्यतीत्याशंक्याह कविकल्पलताहस्ते इति ।
कविकल्पलताहस्ते काव्यादर्शो विधीयतां ॥
शौरे: काव्यप्रकाशास्यं चंद्रालोकेऽपि लोक्यते ॥८॥

ननु रामायणभारतामरकोशप्रक्रिया कविकल्पलताकाव्यादर्शकाव्यप्रकाशचंद्रालोकादयोप्यवलोक्यंते तथापि कवित्वे ओज:प्रसादमाधुर्यादयो गुणा न जायंते तस्मादष्टाविंशतिभुवनपालनकुशलया दुग्धोदधिकन्यकया सहस्रहृदय एव धृतत्वादंतर्बहिरपि नि:सीमप्रेमानुकूल्य मुद्वहन् यो विष्णु र्विजयते सोऽस्माकं सर्वस्वं भवति चेन्निरतिशयसौख्यदानदक्षं काव्य मुत्पत्स्यते तस्मात्तमेवानन्यगतिक: प्रार्थयन् तदितरयो र्दक्षकन्यकया भारत्या सहैकरूपविरचितशरीरयो रप्यर्धांगधृतत्वा त्तथाच वक्त्रेणैव स्फुटीकरणत्वा च्छंकरविरंच्यो: ससीमप्रोनुकूल्यं प्रदर्शयन्नाह दाक्षिण्य मिति।
दाक्षिण्यं न प्रियाया: प्रकटयति बहि: शंकर: किंतु वाम्यं
वक्त्रेणैवातिसक्तिं स्फुटयति न हृदा वल्लभाया विरचि: ॥
नि:सीमप्रेमतोंतर्बहिरपि हृदयासक्ति मावि:प्रकुर्वद्
यत्तत्सर्वस्वमव्यादुदधितनुभुव: कृष्णसंज्ञं महो न: ॥९॥