Deprecated: Required parameter $article follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $helper follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

Deprecated: Required parameter $method follows optional parameter $type in /home/samagrarajwade/public_html/libraries/regularlabs/src/Article.php on line 57

मराठ्यांच्या इतिहासाची साधने खंड सहावा (१८ वे शतक)

[ ४४५ ]

रौद्राब्दयुग्मखरसेंदुमिते शके च ।
चैत्रेऽसिते हरितिथौ गुरुसूर्यतारे ॥
संभाजिवर्मनृपतिः पदमारुरोह ।
ज्येष्ठः शिवाजितनयः खलु भोसलेति ॥ १ ॥
दिग्रसशशिमिते शके विभवेब्दे तपसि परपक्षे ।
अनुराधार्यमवारे भुक्त्वा राज्यं गतः स्वर्गं ॥ २ ॥
द्विखरसशशिमिते शके रौद्रेब्दे सहसि सितपक्षे ।
दिग्दिवसे रविवारे तदाद्यतनयः शिवाजिवर्मासीत् ॥ ४ ॥
वसुनयनरसमृगांकमिते शके व्ययाव्हवर्षे च ।
फाल्गुनशुक्लदशम्यां गुरुवारे रोहिणीसहिते ॥ ५ ॥
स्वीयपदमारुरुहे दिल्लीपोक्तः स साहुराजेति ।
शिवदृग्वसुबाणेंदुमिते शके प्लवंगनामाब्दे ॥ ६ ॥
चैत्र शुद्धनवम्यां आश्लेषायुक्तरविवारे ।
मूलशिवानेरपरः पुत्रोऽभूद्रामवर्मेति ॥ ७ ॥
दिग्रसशशिमिते शके विभवेब्दे तपस्यशुक्ले च ।
सिंहासनमधितष्ठौ गुरुपंचम्यां सवारि नक्षत्रे ॥ ८ ॥
भूदृग्रसचंद्रमिते शके प्रमाथिनाम्निवर्षे च ।
फाल्गुनशुद्धे मृगशनियुक्ताष्टम्यां दिवंस आरुरुहे ॥ ९ ॥